(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.212. अध्यायः 212
Mahabharata - Vana Parva - Chapter Topics
कौशिकंप्रतिधर्मव्याधेन सर्वैहिंसाया दुस्त्यजत्वोपपादनपूर्वकं सर्ववर्णानां स्वस्वधर्मानुहानस्य श्रेयःसाधात्वादिकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

मार्कण्डेय उवाच। 3-212-0x(2484)(24287)
स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर।
यदहं ह्याचरे कर्म घोरमेतदसंशयम् ॥ 3-212-1(24288)
विधिस्तु बलवान्ब्रह्मन्दुस्तरं हि पुरा कृतम्।
पुरा कृतस् पापस्य कर्मदोषो भवत्ययम् ॥ 3-212-2(24289)
दोपस्यैतस्य वै ब्रह्मन्विघाते यत्नवानहम्।
विधिना हि हते पूर्वं निमित्तं घातको भवेत् ॥ 3-212-3(24290)
निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम ॥ 3-212-4(24291)
येषां हतानां मांसानि विक्रीणीमो वयं द्विज।
तेषामपि भवेद्धर्म उपयोगेन भक्षणात्।
देवतातिथिभृत्यानां पितृणां चापि पूजनात् ॥ 3-212-5(24292)
ओषध्यो वीरुधश्चैव पशवो मृगपक्षिणः।
अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः ॥ 3-212-6(24293)
आत्ममांसप्रसादेन शिबिरौशीनरो नृपः।
स्वर्गं सुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम ॥ 3-212-7(24294)
राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज।
[द्वे सहस्रे तु पच्छेते पशूनामन्वहं तदा।]
अहन्यहनि पच्येते द्वे सहस्रे गवां तथा ॥ 3-212-8(24295)
स मासं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः।
अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम ॥ 3-212-9(24296)
चातुर्मास्ये च पशवो वध्यन्त इति नित्यशः।
अग्नयो मांसकामाश्चइत्यपि श्रूयते श्रुतिः ॥ 3-212-10(24297)
यज्ञेषु पशवो ब्रह्मन्वध्यन्ते सततं द्विजैः।
संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन् ॥ 3-212-11(24298)
यदि नैवाग्नयो ब्रह्मन्मांसकामाऽभवन्पुरा।
भक्ष्यं नैवाभवन्मांसं कस्यचिद्द्विजसत्तम ॥ 3-212-12(24299)
अत्रापि विधिरुक्तश् मुनिभिर्मांसभक्षणे ॥ 3-212-13(24300)
देवतानां पितृणां च शुङ्क्ते दत्त्वाऽपियः सदा।
यथाविधि यथाश्रद्धं न स दुष्येत भक्षणात् ॥ 3-212-14(24301)
अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः।
भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः ॥ 3-212-15(24302)
सत्यानृते विनिश्चित्य अत्रापि विधिरुच्यते।
सौदासेन तदा राज्ञा मानुषा भक्षिता द्विज।
शापाभिभूतेन भृशमत्र किं प्रतिभाति ते ॥ 3-212-16(24303)
स्वधर्म इतिकृत्वा तु न त्यजामि द्विजोत्तम।
पुरा कृतमिति ज्ञात्वा रजीवाम्येतेन कर्मणा ॥ 3-212-17(24304)
स्वधर्मं त्यजतो ब्रह्मन्नधर्म इह दृश्यते।
स्वकर्मनिरतो यस्तु धर्मः स इति निश्चयः ॥ 3-212-18(24305)
कुले हि विहितं कर्म देही तं न विमुञ्चति।
धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्मये ॥ 3-212-19(24306)
द्रष्टव्यस्तु भवेद्ब्रह्मन्धर्मो धर्मविनिश्चये।
कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात् ॥ 3-212-20(24307)
कर्मणस्तस्य घोरस् वसुधा निर्णयो भवेत्।
दाने च सत्यवाक्ये च गुरुशुश्रूणे तथा।
द्विजातिपूजने चाहं धर्मे च निरतः सदा ॥ 3-212-21(24308)
अतिमानातिवादाभ्यां निवृत्तोस्मि द्विजोत्तम।
कृषिं साध्वीति मन्यन्ते तत्र हिंसा परा स्मृता ॥ 3-212-22(24309)
कर्षन्तो लाङ्गलैरुर्वीं घ्नन्ति भूमिशयान्बहून्।
जीवानन्यांश्च बहुशस्तत्रकिं प्रतिभाति ते ॥ 3-212-23(24310)
धान्यबीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम।
सर्वाण्येतानि जीवा हि तत्र किं प्रतिभाति ते ॥ 3-212-24(24311)
अध्याक्रम् पशूंश्चापि घ्नन्ति वै भक्षयन्ति च।
वृक्षांस्तथौषधीश्चापि छिन्दन्ति पुरुषा द्विज ॥ 3-212-25(24312)
जीवा हि बहवो ब्रह्मन्वृक्षेषु च फलेषु च।
उदके बहवश्चापि तत्रकिं प्रतिभाति ते ॥ 3-212-26(24313)
सर्वं व्याप्तमिदं ब्रह्मन्प्राणिभिः प्राणिजीवनैः।
मत्स्यान्ग्रसन्ते मत्स्याश्च तत्रकिं प्रतिभाति ते ॥ 3-212-27(24314)
सत्वैः सत्वानि जीवन्ति बहुधा द्विजसत्तम।
प्राणिनोऽन्योन्यभक्षाश्च तत्रकिं प्रतिभाति ते ॥ 3-212-28(24315)
चङ्क्रम्यमाणा जीवांश्च धरणीसंश्रितान्बहून्।
पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति ते ॥ 3-212-29(24316)
उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः।
अज्ञानादथवा ज्ञानात्तत्रकिं प्रतिभाति ते ॥ 3-212-30(24317)
जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा।
अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते ॥ 3-212-31(24318)
अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा।
के न हिंसन्ति जीवान्वै लोकेऽस्मिन्द्विजसत्तम् ॥ 3-212-32(24319)
बहु संचिन्त्य इह वै नास्ति कश्चिदहिंसकः ॥ 3-212-33(24320)
अहिंयासां तु निरता यतयो द्विजसत्तम।
कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत् ॥ 3-212-34(24321)
आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः।
महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च ॥ 3-212-35(24322)
सुहृदः सुहृदोऽन्यांस्च दुर्हृदश्चापि दुर्हृदः।
सम्यक्प्रवृत्तान्पुरुषानन सम्यगनुपश्यति ॥ 3-212-36(24323)
समृद्धैश्चन नन्दन्ति बान्धवा बान्धवैरपि।
गुरूंश्चैव विनिदन्ति मूढा निश्चितमानिनः ॥ 3-212-37(24324)
बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम।
धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते ॥ 3-212-38(24325)
वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु।
स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत् ॥ 3-212-39(24326)

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि द्वादशाधिकद्विशततमोऽध्यायः ॥ 212 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-212-1 एतन्मांसविक्रयात्मकम् ॥ 3-212-3 यत्नवानपि न परिहर्तुं शक्नोमि। विधेः प्राबल्यादित्यर्थः ॥ 3-212-4 शरवन्निमित्तभूता वयं संधातृकत्कर्ता तु विधिरेवेत्यर्थः ॥ 3-212-6 अन्नाद्यभूताः अन्नं च तदद्यं च भोग्यं भक्ष्यं चेत्यर्थः ॥ 3-212-15 यज्ञियमांसभुजोऽपि ऋतुगामिनो ब्रह्मचर्यमिव औपचारिकममांसाशित्वमिति भावः ॥ 3-212-20 द्रष्टव्या तु भवेत्प्रज्ञा क्रूरे कर्मणि वर्तता इति झ. पाठः ।


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.